अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 4
सूक्त - प्रजापतिः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त
यदन्त॑रं॒ तद्बाह्यं॒ यद्बाह्यं॒ तदन्त॑रम्। क॒न्या॑नां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ॥
स्वर सहित पद पाठयत् । अन्त॑रम् । तत् । बाह्य॑म् । यत् । बाह्य॑म् । तत् । अन्त॑रम् । क॒न्या᳡नाम् । वि॒श्वऽरू॑पाणाम् । मन॑: । गृ॒भा॒य॒ । ओ॒ष॒धे॒ ॥३०.४॥
स्वर रहित मन्त्र
यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम्। कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥
स्वर रहित पद पाठयत् । अन्तरम् । तत् । बाह्यम् । यत् । बाह्यम् । तत् । अन्तरम् । कन्यानाम् । विश्वऽरूपाणाम् । मन: । गृभाय । ओषधे ॥३०.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 4
Subject - The Wedded Couple
Meaning -
What is inside in the heart is out on the surface. Whatever is out is deep at the heart core. When it is so, O nature’s sanative of affliction (oshadhi), grab the mind of the maidens, they are blest with universal beauty, love and expression.