अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 4
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम्। सं ह्यू॒र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठअप॑ । इ॒त: । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । दु॒:ऽकृ॒तम् । अप॑ । रक्षां॑सि । शिमि॑दाम् । च॒ । से॒ध॒त॒म् । सम् । हि । ऊ॒र्जया॑ । सृ॒जथ॑: । सम् । बले॑न । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.४॥
स्वर रहित मन्त्र
अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम्। सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठअप । इत: । वायो इति । सविता । च । दु:ऽकृतम् । अप । रक्षांसि । शिमिदाम् । च । सेधतम् । सम् । हि । ऊर्जया । सृजथ: । सम् । बलेन । तौ । न: । मुञ्चतम् । अंहस: ॥२५.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 4
Subject - Freedom from Sin and Distress
Meaning -
May Vayu and Savita drive away evil deeds, destructive forces and afflictive elements from here. Together, with pranic energy, strength of vital warmth of nourishment and inspiration for advancement, you evolve and create new possibilities of life’s progress.