अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - तक्मनाशन सूक्त
अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः। वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ॥
स्वर सहित पद पाठअ॒ग्नि: । त॒क्मान॑म् । अप॑ । बा॒ध॒ता॒म् । इ॒त: । सोम॑: । ग्रावा॑ । वरु॑ण: । पू॒तऽद॑क्षा । वेदि॑: । ब॒र्हि: । स॒म्ऽइध॑: । शोशु॑चाना: । अप॑ । द्वेषां॑सि । अ॒मु॒या॒ । भ॒व॒न्तु॒ ॥२२.१॥
स्वर रहित मन्त्र
अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः। वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥
स्वर रहित पद पाठअग्नि: । तक्मानम् । अप । बाधताम् । इत: । सोम: । ग्रावा । वरुण: । पूतऽदक्षा । वेदि: । बर्हि: । सम्ऽइध: । शोशुचाना: । अप । द्वेषांसि । अमुया । भवन्तु ॥२२.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 1
Subject - Cure of Fever
Meaning -
May the yajna fire, soma herb, grava, the soma crush, the cloud, Varuna, pure water, the yajna vedi, the holy grass, all bright and pure in strength, join to give us good health and thus keep away all physical and mental negativities.