अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - विराट्पथ्या बृहती
सूक्तम् - तक्मनाशन सूक्त
ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः। याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥
स्वर सहित पद पाठओक॑: । अ॒स्य॒ । मूज॑ऽवन्त: । ओक॑: । अ॒स्य॒ । म॒हा॒ऽवृ॒षा: । याव॑त् । जा॒त: । त॒क्म॒न् । तावा॑न् । अ॒सि॒ । बल्हि॑केषु । नि॒ऽओ॒च॒र: ॥२२.५॥
स्वर रहित मन्त्र
ओको अस्य मूजवन्त ओको अस्य महावृषाः। यावज्जातस्तक्मंस्तावानसि बल्हिकेषु न्योचरः ॥
स्वर रहित पद पाठओक: । अस्य । मूजऽवन्त: । ओक: । अस्य । महाऽवृषा: । यावत् । जात: । तक्मन् । तावान् । असि । बल्हिकेषु । निऽओचर: ॥२२.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 5
Subject - Cure of Fever
Meaning -
It spreads in areas of munja grass. Its place is the areas of heavy rains. Ever since it has arisen, it has been observed in troublesome areas of the strong.