Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 118/ मन्त्र 2
उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑ दत्तं न ए॒तत्। ऋ॒णान्नो॒ नर्णमेर्त्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑त् ॥
स्वर सहित पद पाठउग्रं॑पश्ये॒ इत्युग्र॑म्ऽपश्ये । राष्ट्र॑ऽभृत् । किल्बि॑षाणि । यत् । अ॒क्षऽवृ॑त्तम् । अनु॑ । द॒त्त॒म् । न॒: । ए॒तत् । ऋ॒णात् । न॒: । न । ऋ॒णम् । एर्त्स॑मान: । य॒मस्य॑ । लो॒के । अधि॑ऽरज्जु: । आ । अ॒य॒त् ॥११८.२॥
स्वर रहित मन्त्र
उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्। ऋणान्नो नर्णमेर्त्समानो यमस्य लोके अधिरज्जुरायत् ॥
स्वर रहित पद पाठउग्रंपश्ये इत्युग्रम्ऽपश्ये । राष्ट्रऽभृत् । किल्बिषाणि । यत् । अक्षऽवृत्तम् । अनु । दत्तम् । न: । एतत् । ऋणात् । न: । न । ऋणम् । एर्त्समान: । यमस्य । लोके । अधिऽरज्जु: । आ । अयत् ॥११८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 118; मन्त्र » 2
Subject - Freedom from Debt
Meaning -
O relentless watchful sustainers of the Rashtra, pray bail us out of our trespasses and put us back on course lest the agent of life and law in this world pursue us with the rope to exact the debt money rising in compound measure.