Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 36
    ऋषिः - गोतम ऋषिः देवता - यज्ञो देवता छन्दः - भुरिक् पङ्क्तिः स्वरः - पञ्चमः
    0

    यन्नीक्ष॑णं माँ॒स्पच॑न्याऽउ॒खाया॒ या पात्रा॑णि यू॒ष्णऽआ॒सेच॑नानि।ऊ॒ष्म॒ण्याऽपि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म्॥३६॥

    स्वर सहित पद पाठ

    यत्। नीक्ष॑ण॒मिति॑ नि॒ऽईक्ष॑णम्। मा॒ꣳस्पच॑न्या॒ इति॑ मा॒ꣳस्पच॑न्याः। उ॒खायाः॑। या। पात्रा॑णि। यू॒ष्णः। आ॒सेच॑ना॒नीत्या॒ऽसेच॑नानि। ऊ॒ष्म॒ण्या᳖। अ॒पि॒धानेत्य॑पि॒ऽधाना॑। च॒रू॒णाम्। अङ्काः॑। सू॒नाः। परि॑। भू॒ष॒न्ति॒। अश्व॑म् ॥३६ ॥


    स्वर रहित मन्त्र

    यन्नीक्षणम्माँस्पचन्याऽउखाया या पात्राणि यूष्णऽआसेचनानि । ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥


    स्वर रहित पद पाठ

    यत्। नीक्षणमिति निऽईक्षणम्। माꣳस्पचन्या इति माꣳस्पचन्याः। उखायाः। या। पात्राणि। यूष्णः। आसेचनानीत्याऽसेचनानि। ऊष्मण्या। अपिधानेत्यपिऽधाना। चरूणाम्। अङ्काः। सूनाः। परि। भूषन्ति। अश्वम्॥३६॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 36
    Acknowledgment

    सपदार्थान्वयः - या ऊष्मण्याऽपिधानाऽऽसेचनानि पात्राणि यन्मांस्पचन्या उखाया नीक्षणं चरूणामङ्काः सूना यूष्णोऽश्वं परिभूषन्ति तानि स्वीकर्त्तव्यानि ॥ ३६॥ सपदार्थान्वयः-- या यानि ऊष्मण्या ऊष्मसु साधूनि अपिधाना आच्छादनानि, आसेचनानि समन्तात् सिञ्चन्ति यैस्तानि पात्राणि, यत्--मांस्पचन्या मांसं पचन्ति यस्यां तस्याः उखायाः स्थाल्या: नीक्षणं निकृष्टं तदीक्षणं=दर्शनं च तत्, चरूणां पात्राणाम् अङ्काः लक्षिताः सूनाः प्रसूताः, यूष्णः वर्द्धकस्य अश्वं परिभूषन्ति सर्वतोऽलङ्कुर्वन्ति; तानि स्वीकर्त्तव्यानि ॥ २५ । ३६॥

    पदार्थः -
    (यत्) (नीक्षणम्) निकृष्टं तदीक्षणं=दर्शनं च तत् (मांस्पचन्याः) मांसं पचन्ति यस्यां तस्याः (उखायाः) स्थाल्या: (या) यानि (पात्राणि) (यूष्णः) वर्द्धकस्य (आसेचनानि) समन्तात् सिचन्ति यैस्तानि (ऊष्मण्या) ऊष्मसु साधूनि (अपिधाना) आच्छादनानि (चरूणाम्) पात्राणाम् (अङ्काः) लक्षिताः (सूनाः) प्रसूता: (परि) सर्वतः (भूषन्ति) अलङ्कुर्वन्ति (अश्वम्) ॥ ३६ ॥

    भावार्थः - यदि केचिदश्वादीनामुपकारिणां पशूनां, शुभानां पक्षिणां मांसाहारं कुर्युस्तर्हि तेभ्यो दण्डो यथाऽपराधं दातव्य एव ॥ २५ । ३६ ॥

    विशेषः - गोतमः। यज्ञः=मांसाहारिभ्यो यथाऽपराधं दण्डः । भुरिक्पङ्क्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें
    Top