Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 31
    ऋषिः - वत्स ऋषिः देवता - वरुणो देवता छन्दः - विराट् आर्षी त्रिष्टुप्, स्वरः - धैवतः
    0

    वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ऽउ॒स्रिया॑सु। हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्वग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑॥३१॥

    स्वर सहित पद पाठ

    वने॑षु। वि। अ॒न्तरि॑क्षम्। त॒ता॒न॒। वाज॑म्। अर्व॒त्स्वित्यर्व॑त्ऽसु। पयः॑। उ॒स्रिया॑सु। हृ॒त्स्विति॑ हृ॒त्ऽसु। क्रतु॑म्। वरु॑णः। वि॒क्षु। अ॒ग्निम्। दि॒वि। सूर्य्य॑म्। अ॒द॒धा॒त्। सोम॑म्। अद्रौ॑ ॥३१॥


    स्वर रहित मन्त्र

    वनेषु व्यन्तरिक्षन्ततान वाजमर्वत्सु पय उस्रियासु हृत्सु क्रतुँ वरुणो विक्ष्वग्निन्दिवि सूर्यमदधात्सोममद्रौ ॥


    स्वर रहित पद पाठ

    वनेषु। वि। अन्तरिक्षम्। ततान। वाजम्। अर्वत्स्वित्यर्वत्ऽसु। पयः। उस्रियासु। हृत्स्विति हृत्ऽसु। क्रतुम्। वरुणः। विक्षु। अग्निम्। दिवि। सूर्य्यम्। अदधात्। सोमम्। अद्रौ॥३१॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 31
    Acknowledgment

    सपदार्थान्वयः - यो वरुणः=परमेश्वरः वनेषु=किरणेषु रश्मिषु अन्तरिक्षम्आकाशंविततान विस्तारितवान् अर्वत्सु अश्वेषु वाजं वेगम् उस्रियासु गोषु पयः दुग्धं हृत्सु हृदयेषु क्रतुं प्रज्ञां कर्म वा विक्षु प्रजासु अग्निं विद्युतं दिवि प्रकाशे सूर्यः सवितारम् अद्रौ मेघेसोमम् अमृतात्मकं रसं चादधात् धत्तवान् स एव सर्वैरूपास्यः।। [सूर्यो वायुश्च] यो वरुणः=सूर्यो वायुर्वा वनेषु=अरण्येषु वृक्षसमूहेषु अन्तरिक्षम्आकाशं विततान विस्तारयतः, अर्वत्सु प्राप्तवेगगुणेषु विद्युदादिषुवाजं वेगम्उस्रियासु गोषु पयः दुग्धं हृत्सु हृदयेषु क्रतुं प्रज्ञां कर्म वा विक्षु प्रजासु अग्निम् प्रसिद्धमग्निंदिवि प्रकाशेसूर्यं सवितारम् अद्रौशैले सोमम् सोमवल्याद्योषधीगणंचादधात् दधाति, स एव सम्यगुपयोजनीयोऽस्ति ॥ ४ । ३१ ।। [यो वरुणः=परमेश्वरः, सूर्यो वायुर्वा वनेषु......अन्तरिक्षं विततान, अर्वत्सु वाजम्, उस्रियासु पयः, क्रतुं, विक्ष्वग्निं, दिवि सूर्यम्, अद्रौ सोमं चादधात् स, एव सर्वैरुपास्यः सम्यगुपयोजनीयो वास्ति]

    पदार्थः -
    (वनेषु) रश्मिषु वृक्षसमूहेषु वा।वनमिति रश्मिनामसु पठितम् ॥ निघं० १ ॥ ५ ॥ (व) विशेषार्थे (अन्तरिक्षम्) आकाशम् (ततान) विस्तारितवान् विस्तारयतो वा (वाजम्) वेगम् (अर्वत्सु) अश्वेषु प्राप्तवेगगुणेषु विद्युदादिषु वा।अर्वेत्यश्वनामसु पठितम् ॥ निघं० १ । १४ ॥ (पयः) दुग्धम् (उस्रियासु) गोषु । उस्रियेति गोनामसु पठतिम् ॥ निघं० १ । १४ ॥ (हृत्सु) हृदयेषु (क्रतुम्) प्रज्ञां कर्म वा (वरुणः) परमेश्वरः सूर्य्यो वायुर्वा (विक्षु) प्रजासु (अग्निम्) विद्युतं प्रसिद्धमग्निं वा (दिवि) प्रकाशे (सूर्य्यम्) सवितारम् (अदधात्) धत्तवान् दधाति वा (सोमम्) अमृतात्मकं रसं सोमवल्याद्योषधीगणं वा (अद्रौ) मेघे शैले वा। अद्रिरिति मेघनामसु पठितम् ॥ निघं० १ । १० ॥ अयं मन्त्रः श० ३ ।३ ।४ ।७ व्याख्यातः ॥ ३१ ॥ [ईश्वरः]

    भावार्थः - अत्र श्लेषालङ्कारः ।। यथा परमेश्वरः स्वविद्याप्रकाशजगद्रचनाभ्यां सर्वेषु पदार्थेषु तत्तत्स्वभावयुक्तान् गुणान् संस्थाप्य विज्ञानादिकं वायुसूर्यादिकं च विस्तृणोति तथैव वायुसूर्यावपि सर्वेभ्यः सुखं विस्तारयतः ।। ४ । ३१ ।।

    विशेषः - वत्सः । वरुणः=ईश्वरः, सूर्यो वायुश्च ॥ विराडार्षी त्रिष्टुप् । धैवतः ।।

    इस भाष्य को एडिट करें
    Top