ऋग्वेद - मण्डल 10/ सूक्त 17/ मन्त्र 12
ऋषिः - देवश्रवा यामायनः
देवता - आपः सोमो वा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ॥
स्वर सहित पद पाठयः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् । अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥
स्वर रहित मन्त्र
यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥
स्वर रहित पद पाठयः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् । अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥ १०.१७.१२
ऋग्वेद - मण्डल » 10; सूक्त » 17; मन्त्र » 12
अष्टक » 7; अध्याय » 6; वर्ग » 25; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 25; मन्त्र » 2
भावार्थ - परमात्म्याने निर्माण केलेला सूर्य किंवा रसरूप जलांशू अंतरिक्षाच्या माध्यमाने पृथ्वीवर येतो. त्या सूर्य किंवा जलाचा मनाने विचार करून अधिकाधिक उपयोग केला पाहिजे. ॥१२॥
इस भाष्य को एडिट करें