ऋग्वेद - मण्डल 10/ सूक्त 28/ मन्त्र 2
ऋषिः - इन्द्रवसुक्रयोः संवाद ऐन्द्रः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
स रोरु॑वद्वृष॒भस्ति॒ग्मशृ॑ङ्गो॒ वर्ष्म॑न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः । विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥
स्वर सहित पद पाठसः । रोरु॑वत् । वृ॒ष॒भः । ति॒ग्मऽशृ॑ङ्गः । वर्ष्म॑न् । त॒स्थौ॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । विश्वे॑षु । ए॒न॒म् । वृ॒जने॑षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति॑ । सु॒तऽसो॑मः । पृ॒णाति॑ ॥
स्वर रहित मन्त्र
स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः । विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥
स्वर रहित पद पाठसः । रोरुवत् । वृषभः । तिग्मऽशृङ्गः । वर्ष्मन् । तस्थौ । वरिमन् । आ । पृथिव्याः । विश्वेषु । एनम् । वृजनेषु । पामि । यः । मे । कुक्षी इति । सुतऽसोमः । पृणाति ॥ १०.२८.२
ऋग्वेद - मण्डल » 10; सूक्त » 28; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 20; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 20; मन्त्र » 2
भावार्थ - शरीरात चेतनशक्तिमान आत्मा शरीरातील अंगात चेतनत्वाची वृष्टी करून आपल्याला सिद्ध करतो. शरीरात सर्वश्रेष्ठ हृदयात विराजमान असतो. प्राण त्याचे भोग व अपवर्गामध्ये साधन बनतो. अशा साधनरूप प्राणाचे तो रक्षण करतो व राष्ट्रात शस्त्रसंपन्न शक्तिमान सुखवर्षक राजा राष्ट्रातील प्रजेत सुखाची वृष्टी करत स्वत:ला प्रसिद्ध करतो. राष्ट्रभूमीच्या राज्यशासन पदावर विराजमान होतो. त्याचा राज्यमंत्री सभा व सेनेला परिपुष्ट करतो व अशा प्रकारे राज्यमंत्र्याचे रक्षण करतो. ॥२॥
इस भाष्य को एडिट करें