अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 53
सूक्त - भृगुः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः। माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥
स्वर सहित पद पाठअवि॑: । कृ॒ष्णा । भा॒ग॒ऽधेय॑म् । प॒शू॒नाम् । सीस॑म् । क्र॒व्य॒ऽअत् । अपि॑ । च॒न्द्रम् । ते॒ । आ॒हु॒: । माषा॑: । पि॒ष्टा: । भा॒ग॒ऽधेय॑म् । ते॒ । ह॒व्यम् । अ॒र॒ण्या॒न्या: । गह्व॑रम् । स॒च॒स्व॒ ॥२.५३॥
स्वर रहित मन्त्र
अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः। माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥
स्वर रहित पद पाठअवि: । कृष्णा । भागऽधेयम् । पशूनाम् । सीसम् । क्रव्यऽअत् । अपि । चन्द्रम् । ते । आहु: । माषा: । पिष्टा: । भागऽधेयम् । ते । हव्यम् । अरण्यान्या: । गह्वरम् । सचस्व ॥२.५३॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 53
Translation -
A black ewe of cattle portion; lead, too, they call thy gold, O flesh-eating one; ground beans are thy portion (as) oblation; seek thou the thicket of the forest-spirit.