Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 19
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - चतुरवसानाष्टपदा भुरिगाकृतिः सूक्तम् - अध्यात्म सूक्त

    अ॑ष्ट॒धा यु॒क्तो वह॑ति॒ वह्नि॑रु॒ग्रः पि॒ता दे॒वानां॑ जनि॒ता म॑ती॒नाम्। ऋ॒तस्य॒ तन्तुं॒ मन॑सा मि॒मानः॒ सर्वा॒ दिशः॑ पवते मात॒रिश्वा॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

    स्वर सहित पद पाठ

    अ॒ष्ट॒ऽअधा । यु॒क्त: । व॒ह॒ति॒ । वह्नि॑: । उ॒ग्र: । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । म॒ती॒नाम् । ऋ॒तस्य॑ । तन्तु॑म् । मन॑सा । मि॒मान॑: । सर्वा॑: । दिश॑: । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१९॥


    स्वर रहित मन्त्र

    अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम्। ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥

    स्वर रहित पद पाठ

    अष्टऽअधा । युक्त: । वहति । वह्नि: । उग्र: । पिता । देवानाम् । जनिता । मतीनाम् । ऋतस्य । तन्तुम् । मनसा । मिमान: । सर्वा: । दिश: । पवते । मातरिश्वा । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१९॥

    अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 19

    Translation -
    The fierce chariot-horse, the father of the enlightened ones and the begetter of wisdoms, bears along, harnessed eightfold. Arranging the thread of the eternal law by the mind, the dweller of the midspace goes about purifying all the quarters -- to that wrathful (enraged) Lord it is offending that some one scathes such a learned intellectual person. O : ascending one, make him tremble; destroy him; put your snares upon the harasser of intellectual persons.

    इस भाष्य को एडिट करें
    Top