अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्,(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्षविबर्हण
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑। यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठअ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ । यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वाया॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.१॥
स्वर रहित मन्त्र
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि। यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥
स्वर रहित पद पाठअक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि । यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वाया: । वि । वृहामि । ते ॥३३.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 1
Subject - Expulsion of Yaksmā - from all parts of the body
Translation -
Out of your two eyes, out of your two nostrils, out of your two ears, out of your mouth, out of your brain, and out of your tongue, I pluck off your wasting disease of head.