अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 6
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि। ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्यस्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
स्वर सहित पद पाठब॒र्हि: । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्क:। वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ॥ ग्रावा॑ । यत्र॑ । वद॑ति । का॒रु: । उ॒क्थ्य॑: । तस्य । इत् । इन्द्र॑: । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥२५.६॥
स्वर रहित मन्त्र
बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि। ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥
स्वर रहित पद पाठबर्हि: । वा । यत् । सुऽअपत्याय । वृज्यते । अर्क:। वा । श्लोकम् । आऽघोषते । दिवि ॥ ग्रावा । यत्र । वदति । कारु: । उक्थ्य: । तस्य । इत् । इन्द्र: । अभिऽपित्वेषु । रण्यति ॥२५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 6
Translation -
Where and when the seat of grass (Kusha) is stretched for good offspring, the respected wise man resounds word of praise in the sky, the praiseworthy man of art like the cloud loudly speaks, Indra, the mighty ruler takes delight in the performances of such a kind.