Loading...
अथर्ववेद > काण्ड 20 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 72/ मन्त्र 1
    सूक्त - परुच्छेपः देवता - इन्द्रः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-७२

    विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्व: सनि॒ष्यवः॒ पृथ॑क्। तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि। इन्द्रं॒ न य॒ज्ञैश्च॒तय॑न्त आ॒यव॒ स्तोमे॑भिरिन्द्रमा॒यवः॑ ॥

    स्वर सहित पद पाठ

    विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यव: । पृथ॑क् । स्व॑१॒रिति॑ स्व॑: । स॒नि॒ष्यव॑: । पृथ॑क् ॥ तम् । त्वा॒ । नाव॑म् । न । प॒र्वणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ॥ इन्द्र॑म् । न । य॒ज्ञै: । चि॒तय॑न्त: । आ॒यव॑: । स्तोमे॑भि: । इन्द्र॑म् । आ॒यव॑: ॥७२.१॥


    स्वर रहित मन्त्र

    विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्व: सनिष्यवः पृथक्। तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि। इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥

    स्वर रहित पद पाठ

    विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यव: । पृथक् । स्व१रिति स्व: । सनिष्यव: । पृथक् ॥ तम् । त्वा । नावम् । न । पर्वणिम् । शूषस्य । धुरि । धीमहि ॥ इन्द्रम् । न । यज्ञै: । चितयन्त: । आयव: । स्तोमेभि: । इन्द्रम् । आयव: ॥७२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 72; मन्त्र » 1

    Translation -
    O Almighty God, men with heroec spirit, seeking light separately, desiring to win the light apart, in all the Yajnas urge you. We, the men and the men of all walk of life thinking of Almighty God like the mighty ruler with Yajnas and praising songs place that of you, O All protecting Lord on the top of the power like the boat which makes the people crossover water.

    इस भाष्य को एडिट करें
    Top