Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 72 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 72/ मन्त्र 1
    सूक्त - परुच्छेपः देवता - इन्द्रः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-७२
    34

    विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्व: सनि॒ष्यवः॒ पृथ॑क्। तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि। इन्द्रं॒ न य॒ज्ञैश्च॒तय॑न्त आ॒यव॒ स्तोमे॑भिरिन्द्रमा॒यवः॑ ॥

    स्वर सहित पद पाठ

    विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यव: । पृथ॑क् । स्व॑१॒रिति॑ स्व॑: । स॒नि॒ष्यव॑: । पृथ॑क् ॥ तम् । त्वा॒ । नाव॑म् । न । प॒र्वणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ॥ इन्द्र॑म् । न । य॒ज्ञै: । चि॒तय॑न्त: । आ॒यव॑: । स्तोमे॑भि: । इन्द्र॑म् । आ॒यव॑: ॥७२.१॥

    स्वर रहित मन्त्र

    विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्व: सनिष्यवः पृथक्। तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि। इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥

    स्वर रहित पद पाठ

    विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यव: । पृथक् । स्व१रिति स्व: । सनिष्यव: । पृथक् ॥ तम् । त्वा । नावम् । न । पर्वणिम् । शूषस्य । धुरि । धीमहि ॥ इन्द्रम् । न । यज्ञै: । चितयन्त: । आयव: । स्तोमेभि: । इन्द्रम् । आयव: ॥७२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 72; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    परमेश्वर की उपासना का उपदेश।

    पदार्थ

    [हे परमेश्वर !] (विश्वेषु) सब (हि) ही (सवनेषु) ऐश्वर्ययुक्त पदार्थों में (समानम्) एकरस व्यापक (एकम्) एक, (स्वः) सुखस्वरूप (त्वा) तुझको (वृषमण्यवः) बलवान् के समान तेजवाले, और (सनिष्यवः) देने योग्य धन को चाहनेवाले पुरुष (पृथक् पृथक्) अलग-अलग (तुञ्जते) ग्रहण करते हैं। (नावम् न) नाव के समान (पर्षणिम्) पार लगानेवाले (तम्) उस (त्वा) तुझ (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा], (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (शूषस्य) बल की (धुरि) धुरी [धारणशक्ति] में (यज्ञैः) यज्ञों [श्रेष्ठ व्यवहारों] से और (स्तोमेभिः) प्रशंसनीय गुणों से (चितयन्तः) चिन्तवन करते हुए (आयवः) पुरुषार्थी (आयवः न) मनुष्यों के समान (धीमहि) हम धारण करें ॥१॥

    भावार्थ

    मनुष्य विद्वान् पुरुषार्थी लोगों के समान आनन्दस्वरूप सर्वशक्तिमान् परमेश्वर का सदा स्मरण करके अपना बल बढ़ाने के लिये प्रयत्न करें ॥१॥

    टिप्पणी

    यह तृच ऋग्वेद में है-१।१३१।२, ३, ६ ॥ १−(विश्वेषु) सर्वेषु (हि) निश्चयेन (त्वा) त्वाम् (सवनेषु) ऐश्वर्ययुक्तेषु पदार्थेषु (तुञ्जते) तुजि हिंसाबलादाननिकेतनेषु-लट्। गृह्णन्ति समानम् एकरसव्यापकम् (एकम्) अद्वितीयम् (वृषमण्यवः) यजिमनिशुन्धि०। उ० ३।२०। मन ज्ञाने दीप्तौ च-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा-निरु० १०।२९। वृषस्य बलवतः पुरुषस्य तेज इव तेजो येषां ते (पृथक्) भिन्नप्रकारेण (स्वः) सुखस्वरूपम् (सनिष्यवः) सर्वधातुभ्य इन्। उ० ४।११८। षणु दाने-इन्। सुप आत्मनः क्यच्। पा० ३।१।८। सनि-क्यच्। सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ। वा० पा० ७।१। सुगागमः। क्याच्छन्दसि। पा० ३।२।१७०। उप्रत्ययः। दातव्यधनमिच्छवः (पृथक्) (तम्) तादृशम् (त्वा) त्वाम् (नावम्) नौकाम् (न) इव (पर्षणिम्) अर्त्तिसृधृ०। उ० २।१०२। पॄ पालनपूरणयोः-अनिप्रत्ययः षुगागमः। पारयितारम् (शूषस्य) बलस्य (धुरि) धृञ् धारणे-क्विप्। बहुलं छन्दसि। पा० ७।१।१०३। इति उरादेशः। यानमुखे। धारणशक्तौ (धीमहि) दधातेः-लिङ्। धरेम (इन्द्रम्) परमेश्वरम् (न) इव (यज्ञैः) श्रेष्ठव्यवहारैः (चितयन्तः) चिती संज्ञाने-णिच्, शतृ। गुणाभावः। चेतयन्तः। स्मरन्तः (आयवः) छन्दसीणः। उ० १।२। इण् गतौ-उण्। गतिमन्तः पुरुषार्थिनः (स्तोमेभिः) प्रशंसनीयगुणैः (इन्द्रम्) परमेश्वरम् (आयवः) मनुष्याः निघ० २।३ ॥

    इंग्लिश (1)

    Subject

    In dr a Devata

    Meaning

    In all their yajnic projects of creation and development and in their acts of piety, all the liberal minded people and all seekers of heavenly bliss, individually as well as together, serve you and abide by you, sole one universal lord of existence. To the same one lord, we too belong, and we too love, meditate on and serve you, Lord, with faith as the very centre of cosmic energy and as the saviour ship for crossing over the ocean of existence. All the people born and living on earth in their mortal existence and all the stars and planets in their songs and dance of adoration serve and worship the Lord as Indra, light of the world like the sun.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top