अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 6
यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे। आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्यस्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥
स्वर सहित पद पाठयस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । य: । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मै इति॑ ॥ आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रु॑: । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥८९.६॥
स्वर रहित मन्त्र
यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे। आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥
स्वर रहित पद पाठयस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । य: । शिश्राय । मघऽवा । कामम् । अस्मै इति ॥ आरात् । चित् । सन् । भयताम् । अस्य । शत्रु: । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥८९.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 6
Translation -
Let the foemen even afar tremble and must bow all the human glories before this mighty ruler into whom we offer our praises and who strong one accommodates our wishes.