अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 2
सूक्त - भृगुः
देवता - वनस्पतिः, प्रजापतिः
छन्दः - निचृत्पथ्यापङ्क्तिः
सूक्तम् - समृद्धि प्राप्ति सूक्त
वेदा॒हं पय॑स्वन्तं च॒कार॑ धा॒न्यं॑ ब॒हु। सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे ॥
स्वर सहित पद पाठवेद॑ । अ॒हम् । पय॑स्वन्तम् । च॒कार॑ । धा॒न्य᳡म् । ब॒हु । स॒म्ऽभृत्वा॑ । नाम॑ । य: । दे॒व: । तम् । व॒यम् । ह॒वा॒म॒हे॒ । य:ऽय॑: । अय॑ज्वन: । गृ॒हे ॥२४.२॥
स्वर रहित मन्त्र
वेदाहं पयस्वन्तं चकार धान्यं बहु। संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे ॥
स्वर रहित पद पाठवेद । अहम् । पयस्वन्तम् । चकार । धान्यम् । बहु । सम्ऽभृत्वा । नाम । य: । देव: । तम् । वयम् । हवामहे । य:ऽय: । अयज्वन: । गृहे ॥२४.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 2
Translation -
I know the Lord of substance who has created plenty of grains. Whoso is called the bestower divine, him we hereby invoke, May he grant to us whatever is in the house of him who worships not.