अथर्ववेद - काण्ड 3/ सूक्त 4/ मन्त्र 5
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - राजासंवरण सूक्त
आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्। तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त्स उ॑पे॒दमेहि॑ ॥
स्वर सहित पद पाठआ । प्र । द्र॒व॒ । प॒र॒मस्या॑: । प॒रा॒ऽवत॑: । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् । तत् । अ॒यम् । राजा॑ । वरु॑ण: । तथा॑ । आ॒ह॒ । स: । त्वा॒ । अ॒यम् । अ॒ह्व॒त् । स: । उप॑ । इ॒दम् । आ । इ॒हि॒ ॥४.५॥
स्वर रहित मन्त्र
आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम्। तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥
स्वर रहित पद पाठआ । प्र । द्रव । परमस्या: । पराऽवत: । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् । तत् । अयम् । राजा । वरुण: । तथा । आह । स: । त्वा । अयम् । अह्वत् । स: । उप । इदम् । आ । इहि ॥४.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 5
Translation -
Rush on this place from farther even than the farthest distance. May both heaven and earth be gracious to you. So this illustrious Varuna (the Police-Chief) has said. As such, - he has invited you. Do come to this place (at once).