Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 4 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 4/ मन्त्र 5
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - राजासंवरण सूक्त
    35

    आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्। तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त्स उ॑पे॒दमेहि॑ ॥

    स्वर सहित पद पाठ

    आ । प्र । द्र॒व॒ । प॒र॒मस्या॑: । प॒रा॒ऽवत॑: । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् । तत् । अ॒यम् । राजा॑ । वरु॑ण: । तथा॑ । आ॒ह॒ । स: । त्वा॒ । अ॒यम् । अ॒ह्व॒त् । स: । उप॑ । इ॒दम् । आ । इ॒हि॒ ॥४.५॥

    स्वर रहित मन्त्र

    आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम्। तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥

    स्वर रहित पद पाठ

    आ । प्र । द्रव । परमस्या: । पराऽवत: । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् । तत् । अयम् । राजा । वरुण: । तथा । आह । स: । त्वा । अयम् । अह्वत् । स: । उप । इदम् । आ । इहि ॥४.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    विषय

    राजतिलक का उत्सव।

    पदार्थ

    (परमस्याः) अत्यन्त (परावतः) दूर देश से (आ, प्र, द्रव) आकर पधार। (ते) तेरेलिये (उभे) दोनों (द्यावापृथिवी=०−व्यौ) सूर्य और पृथिवी (शिवे) मङ्गलकारी (स्ताम्) होवें। (तथा) वैसा ही (अयम्) यह (राजा) राजा (वरुणः) सबमें श्रेष्ठ परमेश्वर (तत्) वह (आह) कहता है। सो (सः अयम्) इस [वरुण परमेश्वर] ने (त्वा) तुझको (अह्वत्) बुलाया है। (सः=सः त्वम्) सो तू (इदम्) इस [राज्य] को (उप) आदरपूर्वक (आ) आकर (इहि) प्राप्त कर ॥५॥

    भावार्थ

    प्रजागण श्रेष्ठ राजा को दूर देश से भी बुला लेवें और वह अपने बुद्धिबल से ऐसा प्रबन्ध करे कि राज्यभर में दैवी और पार्थिव शान्ति रहे, अर्थात् अनावृष्टि और दुर्भिक्षादि में भी उपद्रव न मचे और आकाश, पृथिवी और समुद्रादि के मार्ग अनुकूल रहें। यही आज्ञा परमेश्वर ने वेदों में दी है, उसको राजा यथावत् माने ॥५॥

    टिप्पणी

    ५−(आ)। आगत्य। (प्र द्रव)। द्रु गतौ। प्रकर्षेण प्राप्नुहि। (परमस्याः)। स्याडागमः। अत्यन्तात्। (परावतः)। उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति उपसर्गसाधने धात्वर्थे स्वार्थे वतिः प्रत्ययः। परावतः प्रेरितवतः परागताद्वा-निरु० ११।४८। दूरदेशात्। (शिवे)। मङ्गलकारिण्यौ। (ते)। तुभ्यम्। (द्यावापृथिवी)। सूर्यभूमी। तत्रस्थाः पदार्था इत्यर्थः। (स्ताम्)। भवताम्। (तत्)। प्रसिद्धं वचनम्। (अयम्)। सर्वव्यापकः। (राजा)। ईश्वरः। समर्थः। (वरुणः)। वरणीयः। परमेश्वरः। (तथा)। तेनैव प्रकारेण। (आह)। ब्रूञ् व्यक्तायां वाचि-लट्। ब्रुवः पञ्चानामादित आहो ब्रुवः। पा० ३।४।८४। इति आहादेशः परस्मैपदे। ब्रवीति। कथयति। (अह्वत्)। ह्वेञ्-लुङ्। आहूतवान्। (उप)। पूजायाम्। (इहि)। इण् गतौ। प्राप्नुहि। अन्यत् सुगमम् ॥

    इंग्लिश (1)

    Subject

    Re-establishment of Order

    Meaning

    Come fast from the farthest corner where there be a crisis. Reach the farthest where there is need. May heaven and earth both be good, the environment good and benevolent for the dominion. This is what self- refulgent Varuna, lord of the universe, says to you of you. He has called upon you. The same you come. Take over this dominion, be that same and rule.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top