अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 6
सूक्त - मृगारोऽअथर्वा वा
देवता - भवाशर्वौ रुद्रो वा
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठय: । कृ॒त्या॒ऽकृत् । मू॒ल॒ऽकृत् । या॒तु॒ऽधान॑: । नि । तस्मि॑न् । ध॒त्त॒म् । वज्र॑म् । उ॒ग्रौ॒ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.६॥
स्वर रहित मन्त्र
यः कृत्याकृन्मूलकृद्यातुधानो नि तस्मिन्धत्तं वज्रमुग्रौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठय: । कृत्याऽकृत् । मूलऽकृत् । यातुऽधान: । नि । तस्मिन् । धत्तम् । वज्रम् । उग्रौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 6
Translation -
May you two, O formidable ones, hurl your, adamantine weapon on the torturer, who is a violent injurer and cuts-at the root. May you two, who are the masters of all these bipeds and of the quadrupeds, free us from sin.