अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 4
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्। व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥
स्वर सहित पद पाठप्रा॒चीन॑म् । ब॒र्हि: । प्र॒ऽदिशा॑ । पृ॒थि॒व्या: । वस्तो॑: । अ॒स्या: । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् । वि ।ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑य: । दे॒वेभ्य॑: । अदि॑तये । स्यो॒नम् ॥१२.४॥
स्वर रहित मन्त्र
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम्। व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥
स्वर रहित पद पाठप्राचीनम् । बर्हि: । प्रऽदिशा । पृथिव्या: । वस्तो: । अस्या: । वृज्यते । अग्रे । अह्नाम् । वि ।ऊं इति । प्रथते । विऽतरम् । वरीय: । देवेभ्य: । अदितये । स्योनम् ॥१२.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 4
Translation -
The forward barhis, through the fore-region of the earth, is wreathed on this dawn (vastu), at the beginning (agra) of the days; it spreads out abroad more widely, pleasant to the gods, to Aditi. (barhih) (Also Yv. XXIX. 29)