अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 9
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ती॒क्ष्णेष॑वो ब्राह्म॒णा हे॑ति॒मन्तो॒ यामस्य॑न्ति शर॒व्यां॒ न सा मृषा॑। अ॑नु॒हाय॒ तप॑सा म॒न्युना॑ चो॒त दु॒रादव॑ भिन्दन्त्येनम् ॥
स्वर सहित पद पाठती॒क्ष्णऽइ॑षव: । ब्रा॒ह्म॒णा: । हे॒ति॒ऽमन्त॑: । याम् । अस्य॑न्ति । श॒र॒व्या᳡म् । न । सा । मृषा॑ । अ॒नु॒ऽहाय॑। तप॑सा । म॒न्युना॑ । च॒ । उ॒त । दू॒रात् । अव॑ । भि॒न्द॒न्ति॒ । ए॒न॒म् ॥१८.९॥
स्वर रहित मन्त्र
तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा। अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥
स्वर रहित पद पाठतीक्ष्णऽइषव: । ब्राह्मणा: । हेतिऽमन्त: । याम् । अस्यन्ति । शरव्याम् । न । सा । मृषा । अनुऽहाय। तपसा । मन्युना । च । उत । दूरात् । अव । भिन्दन्ति । एनम् ॥१८.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 9
Translation -
The shower of arrows, which the intellectuals, equipped with sharp arrows and missiles, discharge, never fails. Pursuing with heat and zeal, they pierce him through even on a distance.