अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - ब्रह्मगवी सूक्त
ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑। पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ॥
स्वर सहित पद पाठये । बृ॒हत्ऽसा॑मानम् । अ॒ङ्गि॒र॒सम् । आर्प॑यन् । ब्रा॒ह्म॒णम् । जना॑: । पेत्व॑: । तेषा॑म् । उ॒भ॒याद॑म् । अवि॑: । तो॒कानि॑ । आ॒व॒य॒त् ॥१९.२॥
स्वर रहित मन्त्र
ये बृहत्सामानमाङ्गिरसमार्पयन्ब्राह्मणं जनाः। पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥
स्वर रहित पद पाठये । बृहत्ऽसामानम् । अङ्गिरसम् । आर्पयन् । ब्राह्मणम् । जना: । पेत्व: । तेषाम् । उभयादम् । अवि: । तोकानि । आवयत् ॥१९.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 2
Translation -
Whosoever scathed the great Sama singer, the intellectual, shining like burning coal, the wild beast consumed their infants with his two rows of teeth.