Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 3
यदी॒दं मा॒तुर्यदि॑ पि॒तुर्नः॒ परि॒ भ्रातुः॑ पु॒त्राच्चेत॑स॒ एन॒ आग॑न्। याव॑न्तो अ॒स्मान्पि॒तरः॒ सच॑न्ते॒ तेषां॒ सर्वे॑षां शि॒वो अ॑स्तु म॒न्युः ॥
स्वर सहित पद पाठयदि॑। इ॒दम् । मा॒तु: । यदि॑ । वा॒ । पि॒तु: । न॒: । परि॑ । भ्रातु॑: । पु॒त्रात् । चेत॑स: । एन॑: । आ॒ऽअग॑न् । याव॑न्त: । अ॒स्मान् । पि॒तर॑: । सच॑न्ते । तेषा॑म् । सर्वे॑षाम् । शि॒व: । अ॒स्तु॒ । म॒न्यु: ॥११६.३॥
स्वर रहित मन्त्र
यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन्। यावन्तो अस्मान्पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥
स्वर रहित पद पाठयदि। इदम् । मातु: । यदि । वा । पितु: । न: । परि । भ्रातु: । पुत्रात् । चेतस: । एन: । आऽअगन् । यावन्त: । अस्मान् । पितर: । सचन्ते । तेषाम् । सर्वेषाम् । शिव: । अस्तु । मन्यु: ॥११६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 3
Translation -
If this sin has come from the thinking of our mother, or of the father, or of the brother, or of the son, then, may the righteous anger of all the elders, who visit us, be propitious to us. (Sivah astu manyuh).