अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठजी॒व॒लाम् । न॒घ॒ऽरि॒षाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । त्रा॒य॒मा॒णाम् । सह॑मानाम् । सह॑स्वतीम् । इ॒ह । हु॒वे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥२.६॥
स्वर रहित मन्त्र
जीवलां नघारिषां जीवन्तीमोषधीमहम्। त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥
स्वर रहित पद पाठजीवलाम् । नघऽरिषाम् । जीवन्तीम् । ओषधीम् । अहम् । त्रायमाणाम् । सहमानाम् । सहस्वतीम् । इह । हुवे । अस्मै । अरिष्टऽतातये ॥२.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 6
Translation -
To keep this man out of harm’s way, I administer to him the herb Jivanti, bestower of new life, producing no badeffect, protecting, overwhelming (the disease) and an invigorating tonic.