अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 2
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - उपरिष्टाद्भुरिग्बृहती
सूक्तम् - ओषधि समूह सूक्त
त्राय॑न्तामि॒मं पुरु॑षं॒ यक्ष्मा॑द्दे॒वेषि॑ता॒दधि॑। यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ ॥
स्वर सहित पद पाठत्राय॑न्ताम् । इ॒मम् । पुरु॑षम् । यक्ष्मा॑त् । दे॒वऽइ॑षितात् । अधि॑ । यासा॑म् । द्यौ: । पि॒ता । पृ॒थि॒वी । मा॒ता ।स॒मु॒द्र: । मूल॑म् । वी॒रुधा॑म् । ब॒भूव॑ ॥७.२॥
स्वर रहित मन्त्र
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि। यासां द्यौष्पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥
स्वर रहित पद पाठत्रायन्ताम् । इमम् । पुरुषम् । यक्ष्मात् । देवऽइषितात् । अधि । यासाम् । द्यौ: । पिता । पृथिवी । माता ।समुद्र: । मूलम् । वीरुधाम् । बभूव ॥७.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 2
Translation -
May you save this man from the consumptive disease, sent by the bounties of Nature, O herbs, whose father is the sky, mother the earth, and the origin is ocean (atmospheric ocean).