अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि। य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥
स्वर सहित पद पाठन । वि । जा॒ना॒मि॒ । यत्ऽइ॑व । इ॒दम् । अस्मि॑ । नि॒ण्य: । सम्ऽन॑ध्द: । मन॑सा । च॒रा॒मि॒ । य॒दा । मा॒ । आ॒ऽअग॑न् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । आत् । इत् । वा॒च: । अ॒श्नु॒वे॒ । भा॒गम् । अ॒स्या: ॥१५.१५॥
स्वर रहित मन्त्र
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि। यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥
स्वर रहित पद पाठन । वि । जानामि । यत्ऽइव । इदम् । अस्मि । निण्य: । सम्ऽनध्द: । मनसा । चरामि । यदा । मा । आऽअगन् । प्रथमऽजा: । ऋतस्य । आत् । इत् । वाच: । अश्नुवे । भागम् । अस्या: ॥१५.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 15
Translation -
I distinguish not if I am this all, for I go perplexed and bound in mind: when the first-born (perceptions) of the Holy Law reached me, then of this speech I first obtained a portion (of the meaning): (Also Rg.I.164.37)