अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 14
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
या हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः। अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
स्वर सहित पद पाठया: । हृद॑यम् । उ॒प॒ऽऋ॒षन्ति॑ । अ॒नु॒ऽत॒न्वन्ति॑ । कीक॑सा: । अहिं॑सन्ती: । अ॒ना॒म॒या: । नि: । द्र॒व॒न्तु॒ । ब॒हि: । बिल॑म् ॥१३.१४॥
स्वर रहित मन्त्र
या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः। अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥
स्वर रहित पद पाठया: । हृदयम् । उपऽऋषन्ति । अनुऽतन्वन्ति । कीकसा: । अहिंसन्ती: । अनामया: । नि: । द्रवन्तु । बहि: । बिलम् ॥१३.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 14
Translation -
They, that pierce through to the heart and spread out to the breast-bones may those (diseases) flow out through the orifice without causing any harm or sickness.