अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 15
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - विराडनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
याः पा॒र्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः। अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
स्वर सहित पद पाठया: । पा॒र्श्वे इति॑ । उ॒प॒ऽऋ॒षन्ति॑ । अ॒नु॒ऽनिक्ष॑न्ति । पृ॒ष्टी: । अहिं॑सन्ती: । अ॒ना॒म॒या: । नि: । द्र॒व॒न्तु॒ । ब॒हि: । बिल॑म् ॥१३.१५॥
स्वर रहित मन्त्र
याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः। अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥
स्वर रहित पद पाठया: । पार्श्वे इति । उपऽऋषन्ति । अनुऽनिक्षन्ति । पृष्टी: । अहिंसन्ती: । अनामया: । नि: । द्रवन्तु । बहि: । बिलम् ॥१३.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 15
Translation -
They, that pierce through to the sides and stab into the ribs may those (diseases) flow out through the orifice without causing any harm or sickness.