साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 102/ मन्त्र 1
ऋषिः - वसिष्ठः कुमारो वाग्नेयः
देवता - पर्जन्यः
छन्दः - गायत्री
स्वरः - षड्जः
प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ । स नो॒ यव॑समिच्छतु ॥
स्वर सहित पद पाठप॒र्जन्या॑य । प्र । गा॒य॒त॒ । दि॒वः । पु॒त्राय॑ । मी॒ळ्हुषे॑ । सः । नः॒ । यव॑सम् । इ॒च्छ॒तु॒ ॥
स्वर रहित मन्त्र
पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे । स नो यवसमिच्छतु ॥
स्वर रहित पद पाठपर्जन्याय । प्र । गायत । दिवः । पुत्राय । मीळ्हुषे । सः । नः । यवसम् । इच्छतु ॥ ७.१०२.१
ऋग्वेद - मण्डल » 7; सूक्त » 102; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 2; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 2; मन्त्र » 1
विषयः - अथ श्लेषेण परमात्मा मेघश्च वर्ण्यते।
पदार्थः -
भो ऋत्विजः ! यूयं (पर्जन्याय) तृप्तिजनकं परमात्मानं स्तोतुं (प्र, गायत) ब्रह्म गायत (सः, नः, यवसम्, इच्छतु) स हीश्वरोऽस्मभ्यमैश्वर्यं ददातु यः (दिवः, पुत्राय) द्युलोकस्थजनान् नरकादुद्धरति तथा (मीळ्हुषे) तेषामानन्दाय भवति ॥१॥