साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 102/ मन्त्र 2
ऋषिः - वसिष्ठः कुमारो वाग्नेयः
देवता - पर्जन्यः
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
यो गर्भ॒मोष॑धीनां॒ गवां॑ कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑: पुरु॒षीणा॑म् ॥
स्वर सहित पद पाठयः । गर्भ॑म् । ओष॑धीनाम् । गवा॑म् । कृ॒णोति॑ । अर्व॑ताम् । प॒र्जन्यः॑ । पु॒रु॒षीणा॑म् ॥
स्वर रहित मन्त्र
यो गर्भमोषधीनां गवां कृणोत्यर्वताम् । पर्जन्य: पुरुषीणाम् ॥
स्वर रहित पद पाठयः । गर्भम् । ओषधीनाम् । गवाम् । कृणोति । अर्वताम् । पर्जन्यः । पुरुषीणाम् ॥ ७.१०२.२
ऋग्वेद - मण्डल » 7; सूक्त » 102; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 2; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 2; मन्त्र » 2
पदार्थः -
(यः) य ईश्वरः (ओषधीनाम्, गर्भम्) ओषधीनामुत्पत्तिस्थानमस्ति तथा च (अर्वताम्, गवाम्, कृणोति) गमनशीलविद्युदादिपदार्थान् रचयति तथा (पुरुषीणाम्, पर्जन्यः) मनुष्यबुद्धीनां तर्प्ताऽस्ति ॥२॥