ऋग्वेद - मण्डल 7/ सूक्त 103/ मन्त्र 10
गोमा॑युरदाद॒जमा॑युरदा॒त्पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू॑नि । गवां॑ म॒ण्डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयु॑: ॥
स्वर सहित पद पाठगोऽमा॑युः । अ॒दा॒त् । अ॒जऽमा॑युः । अ॒दा॒त् । पृश्निः॑ । अ॒दा॒त् । हरि॑तः । नः॒ । वसू॑नि । गवा॑म् । म॒ण्डूकाः॑ । दद॑तः । श॒तानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥
स्वर रहित मन्त्र
गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि । गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयु: ॥
स्वर रहित पद पाठगोऽमायुः । अदात् । अजऽमायुः । अदात् । पृश्निः । अदात् । हरितः । नः । वसूनि । गवाम् । मण्डूकाः । ददतः । शतानि । सहस्रऽसावे । प्र । तिरन्ते । आयुः ॥ ७.१०३.१०
ऋग्वेद - मण्डल » 7; सूक्त » 103; मन्त्र » 10
अष्टक » 5; अध्याय » 7; वर्ग » 4; मन्त्र » 5
अष्टक » 5; अध्याय » 7; वर्ग » 4; मन्त्र » 5
पदार्थः -
(गोमायुः) गम्भीरशब्दाः प्रावृषेण्या (अजमायुः) प्राकृतशब्दवन्तश्च (पृश्निः) अनेकरूपाः (हरितः) हरितवर्णाश्च एते स्वरचनया (नः) अस्मभ्यं (अदात्) शिक्षां ददतु (गवाम्, मण्डूकाः) स्वशिक्षया विद्याविषयक-चमत्कृतिं वर्धयन्तो जीवाः (शतानि, ददतः) अनेकविधाः शिक्षा ददतु तथा चेश्वरः (वसूनि) ऐश्वर्यं (आयुः) जीवनकालं च (प्र, तिरन्ते) वितरतु तथा (सहस्रसावे) सहस्रविधौषधोत्पादके वर्षाकाले परमात्मा तत्तज्जीवसकाशात् तां तां शिक्षां ददातु ॥१०॥ इति त्र्युत्तरशततमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥