ऋग्वेद - मण्डल 7/ सूक्त 104/ मन्त्र 1
ऋषिः - वसिष्ठः
देवता - इन्द्रासोमौ रक्षोहणी
छन्दः - विराड्जगती
स्वरः - निषादः
इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृध॑: । परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिण॑: ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । तप॑तम् । रक्षः॑ । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒ऽवृधः॑ । परा॑ । शृ॒णी॒त॒म् । अ॒चितः॑ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः॑ ॥
स्वर रहित मन्त्र
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृध: । परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिण: ॥
स्वर रहित पद पाठइन्द्रासोमा । तपतम् । रक्षः । उब्जतम् । नि । अर्पयतम् । वृषणा । तमःऽवृधः । परा । शृणीतम् । अचितः । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्रिणः ॥ ७.१०४.१
ऋग्वेद - मण्डल » 7; सूक्त » 104; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 5; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 5; मन्त्र » 1
विषयः - सम्प्रति मण्डलान्तिमसूक्ते परमात्मनो दण्डन्यायौ रक्षोघ्नसूक्तेन वर्ण्येते।
पदार्थः -
(इन्द्रासोमा) हे दण्डन्यायात्मकशक्तिद्वयप्रधान परमात्मन् ! भवान् (रक्षः) राक्षसान् (तपतम्) तापयतु (उब्जतम्) मारयतु (न्यर्पयतम्) अधोगतिं प्रापयतु (वृषणा) हे कामनावर्षणशील परमात्मन् ! (तमोवृधः) मायया वर्द्धमानान् (परा, शृणीत) परितो हिनस्तु (अचितः) दुर्बुद्धीन् (न्योषतम्) भस्मसात् करोतु (हतम्) नाशयतु (नुदेथाम्) अपिनयतु (अत्रिणः) अदत्तभक्षणशीलान् (निशिशीतम्) नश्यतु तनूकरोतु ॥१॥