Loading...
ऋग्वेद मण्डल - 7 के सूक्त 104 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 104/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - इन्द्रासोमौ रक्षोहणी छन्दः - आर्षीजगती स्वरः - निषादः

    इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व । ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥

    स्वर सहित पद पाठ

    इन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् । अ॒भि । अ॒घम् । तपुः॑ । य॒य॒स्तु॒ । च॒रुः । अ॒ग्नि॒वान्ऽइ॑व । ब्र॒ह्म॒ऽद्विषे॑ । क्र॒व्य॒ऽअदे॑ । घो॒रऽच॑क्षसे । द्वेषः॑ । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥


    स्वर रहित मन्त्र

    इन्द्रासोमा समघशंसमभ्य१घं तपुर्ययस्तु चरुरग्निवाँ इव । ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥

    स्वर रहित पद पाठ

    इन्द्रासोमा । सम् । अघऽशंसम् । अभि । अघम् । तपुः । ययस्तु । चरुः । अग्निवान्ऽइव । ब्रह्मऽद्विषे । क्रव्यऽअदे । घोरऽचक्षसे । द्वेषः । धत्तम् । अनवायम् । किमीदिने ॥ ७.१०४.२

    ऋग्वेद - मण्डल » 7; सूक्त » 104; मन्त्र » 2
    अष्टक » 5; अध्याय » 7; वर्ग » 5; मन्त्र » 2

    पदार्थः -
    (इन्द्रासोमा) हे पूर्वोक्तशक्तिद्वयप्रधान परमात्मन् ! (अघशंसम्) अघस्य विरुद्धकर्मणः शंसं प्रशंसितारं (सम्, अघम्) सपापम् (अभि) अभिभवतु (तपुः) सतां सन्तापकः (ययस्तु) दूरं गच्छतु परिक्षीयतां यथा (चरुः, अग्निवान्, इव) हविरग्निना संयोजितं भस्मसात् सम्भवति तथावत् (ब्रह्मद्विषे) वेदानां दूषयितरि (क्रव्यादे) हिंसके (घोरचक्षसे) भीमदर्शने (किमीदिने) किमनेनेति प्रतिकार्ये सन्दिहाने (अनवायम्) निरन्तरं (द्वेषः) द्वेषभावम् (धत्तम्) उत्पादयतु ॥२॥

    इस भाष्य को एडिट करें
    Top