Loading...
ऋग्वेद मण्डल - 7 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 65/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता न॑: क्षि॒तीः क॑रतमू॒र्जय॑न्तीः । अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥

    स्वर सहित पद पाठ

    ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय॑न्तीः । अ॒श्याम॑ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥


    स्वर रहित मन्त्र

    ता हि देवानामसुरा तावर्या ता न: क्षितीः करतमूर्जयन्तीः । अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥

    स्वर रहित पद पाठ

    ता । हि । देवानाम् । असुरा । तौ । अर्या । ता । नः । क्षितीः । करतम् । ऊर्जयन्तीः । अश्याम । मित्रावरुणा । वयम् । वाम् । द्यावा । च । यत्र । पीपयन् । अहा । च ॥ ७.६५.२

    ऋग्वेद - मण्डल » 7; सूक्त » 65; मन्त्र » 2
    अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 2

    पदार्थः -
    (हि) निश्चयेन (ता) राजा तथा प्रजाजनौ (देवानाम्) विदुषां मध्ये (असुरौ) बलवन्तौ भवतः (ता) (अर्या) श्रेष्ठौ भवतः (तौ) (नः) अस्माकं (क्षितीः) पृथिवीं (ऊर्जयन्तीः) वृद्धिसंयुक्ताः (करतं) कुरुतामित्यर्थः (मित्रावरुणा) हे अध्यापकोपदेशकौ (वयं) (वां) युवां (अश्याम) प्राप्नुयाम (द्यावा) द्यावापृथिव्यौ (यत्र) यस्मिन्विषये (पीपयन्) अस्मान्प्रति प्याययेतां (च) पुनः (अहा) अहोरात्राणि वर्धेरन् यत्र एवंविधा प्रार्थना भवति तत्रैव सर्वैश्वर्य्यमुत्पद्यते इति भावः ॥२॥

    इस भाष्य को एडिट करें
    Top