Loading...
ऋग्वेद मण्डल - 7 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 73/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च । अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥

    स्वर सहित पद पाठ

    नि । ऊँ॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ । अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥


    स्वर रहित मन्त्र

    न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥

    स्वर रहित पद पाठ

    नि । ऊँ इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च । अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥ ७.७३.२

    ऋग्वेद - मण्डल » 7; सूक्त » 73; मन्त्र » 2
    अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 2

    पदार्थः -
    (नासत्या) हे सत्यवादिनो विद्वांसः ! (यः) यः (होता) जिज्ञासुः (यजते) यज्ञं करोति (वन्दते च) स्तौति च, सः (प्रियः) परमात्मप्रियः (मनुषः) मनुष्यः (निसादि) तत्रैव स्थितिं लभते लब्ध्वा च (मध्वम्) मधुविद्यारसं (अश्नीतम्) अनुभवति। (अश्विना) हे अध्यापकोपदेशकौ ! स पुरुषः (विदथेषु) यज्ञेषु (प्रयस्वान्) अन्नादिकं दत्त्वा (वाम्) युष्मान् (आ वोचे) आह्वयति (उपाके) भवत्समीपे स्थितो ब्रह्मविद्यां लभते ॥२॥

    इस भाष्य को एडिट करें
    Top