Loading...
ऋग्वेद मण्डल - 7 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 73/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥

    स्वर सहित पद पाठ

    अहे॑म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् । श्रु॒ष्टी॒वाऽइ॑व । प्रऽइ॑षितः । वा॒म् । अ॒बो॒धि॒ । प्रति॑ । स्तोमैः॑ । जर॑माणः । वसि॑ष्ठः ॥


    स्वर रहित मन्त्र

    अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् । श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥

    स्वर रहित पद पाठ

    अहेम । यज्ञम् । पथाम् । उराणाः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् । श्रुष्टीवाऽइव । प्रऽइषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः ॥ ७.७३.३

    ऋग्वेद - मण्डल » 7; सूक्त » 73; मन्त्र » 3
    अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 3

    पदार्थः -
    (उराणाः) हे वेदवाग्वक्तारो विद्वांसः ! यूयम् (इमाम् सुवृक्तिम्) इमां सुन्दरीं गिरं (जुषेथाम्) सेवध्वं (यज्ञम् पथाम्) यज्ञमार्गं (अहेम) वर्द्धयत अन्यच्च (वसिष्ठः) सर्वोत्तमगुणसम्पन्नः (श्रुष्टीवेव प्रेषितः) सर्वव्यापकः (वृषणा) समस्तमनोरथपूरकश्च परमात्मा (स्तोमैः जरमाणः) यो वेदवाणिभिर्वर्ण्यते, सः (वाम् प्रति) युष्मान् (अबोधि) बोधयतु ॥३॥

    इस भाष्य को एडिट करें
    Top