ऋग्वेद - मण्डल 7/ सूक्त 76/ मन्त्र 1
उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् । क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥
स्वर सहित पद पाठउत् । ऊँ॒ इति॑ । ज्योतिः॑ । अ॒मृत॑म् । वि॒श्वऽज॑न्यम् । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । क्रत्वा॑ । दे॒वाना॑म् । अ॒ज॒नि॒ष्ट॒ । चक्षुः॑ । आ॒विः । अ॒कः॒ । भुव॑नम् । विश्व॑म् । उ॒षाः ॥
स्वर रहित मन्त्र
उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥
स्वर रहित पद पाठउत् । ऊँ इति । ज्योतिः । अमृतम् । विश्वऽजन्यम् । विश्वानरः । सविता । देवः । अश्रेत् । क्रत्वा । देवानाम् । अजनिष्ट । चक्षुः । आविः । अकः । भुवनम् । विश्वम् । उषाः ॥ ७.७६.१
ऋग्वेद - मण्डल » 7; सूक्त » 76; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 1
विषयः - सम्प्रत्युषःकाले (ब्रह्ममुहूर्ते) यज्ञकर्मानन्तरं परमात्मनः स्तुतिकरणं प्रस्तूयते।
पदार्थः -
(ज्योतिः) प्रकाशस्वरूपं (अमृतम्) मृत्युरहितं (विश्वजन्यम्) अखिलब्रह्माण्डस्यादिभूतं कारणं (विश्वानरः) सकलब्रह्माण्डव्यापकं (सविता) सर्वेषामुत्पत्तिस्थानं (देवः) दिव्यगुणस्वरूपं परमात्मानं वयम् (अश्रेत्) आश्रयेमहि, यः (देवानाम्) विदुषः (क्रत्वा) शुभमार्गे सम्प्रेर्य (अजनिष्ट) उत्तमफलान्युत्पादयति (भुवनम् विश्वम्) सकलभुवनानां (उषाः) प्रकाशकः (उत्) तथा च (आविः चक्षुः) चराचरस्य चक्षुर्भूतम्, योऽसौ परमात्मदेवोऽस्ति, तं वयं (अकः) स्तुयाम ॥१॥