ऋग्वेद - मण्डल 7/ सूक्त 76/ मन्त्र 2
प्र मे॒ पन्था॑ देव॒याना॑ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः । अभू॑दु के॒तुरु॒षस॑: पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्य॑: ॥
स्वर सहित पद पाठप्र । मे॒ । पन्था॑ । दे॒व॒ऽयानाः॑ । अ॒दृ॒श्र॒न् । अम॑र्धन्तः । वसु॑ऽभिः । इष्कृ॑तासः । अभू॑त् । ऊँ॒ इति॑ । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । प्र॒ती॒ची । आ । अ॒गा॒त् । अधि॑ । ह॒र्म्येभ्यः॑ ॥
स्वर रहित मन्त्र
प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः । अभूदु केतुरुषस: पुरस्तात्प्रतीच्यागादधि हर्म्येभ्य: ॥
स्वर रहित पद पाठप्र । मे । पन्था । देवऽयानाः । अदृश्रन् । अमर्धन्तः । वसुऽभिः । इष्कृतासः । अभूत् । ऊँ इति । केतुः । उषसः । पुरस्तात् । प्रतीची । आ । अगात् । अधि । हर्म्येभ्यः ॥ ७.७६.२
ऋग्वेद - मण्डल » 7; सूक्त » 76; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 2
पदार्थः -
(अमर्धन्तः) सर्वजनेभ्योऽभयदाता (वसुभिः इष्कृतासः) सूर्यचन्द्रादिवसुभिरलङ्कृतः (उषसः) सम्पूर्णज्योतिषां (केतुः) शिरोमणिः परमात्मा (हर्म्येभ्यः) कमनीयज्योतिषां (पुरस्तात्) प्रथमः (प्रतीची) पूर्वां दिशं (आ) सम्यक् (अधि अगात्) आश्रित्य (अभूत्) आविर्भवति तम् (अदृश्रन्) अवलोक्य (प्र) सञ्जातहर्षा उपासका (देवयानाः पन्थाः) इमं देवमार्गं (मे) वयं प्राप्नुयाम, इति वदन्ति ॥२॥