ऋग्वेद - मण्डल 7/ सूक्त 84/ मन्त्र 2
यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभि॑: सिनी॒थः । परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्र॑: कृणवदु लो॒कम् ॥
स्वर सहित पद पाठयु॒वः । रा॒ष्ट्रम् । बृ॒हत् । इ॒न्व॒ति॒ । द्यौः । यौ । से॒तृऽभिः॑ । अ॒र॒ज्जुऽभिः॑ । सि॒नी॒थः । परि॑ । नः॒ । हेळः॑ । वरु॑णस्य । वृ॒ज्याः॒ । उ॒रुम् । नः॒ । इन्द्रः॑ । कृ॒ण॒व॒त् । ऊँ॒ इति॑ । लो॒कम् ॥
स्वर रहित मन्त्र
युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभि: सिनीथः । परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्र: कृणवदु लोकम् ॥
स्वर रहित पद पाठयुवः । राष्ट्रम् । बृहत् । इन्वति । द्यौः । यौ । सेतृऽभिः । अरज्जुऽभिः । सिनीथः । परि । नः । हेळः । वरुणस्य । वृज्याः । उरुम् । नः । इन्द्रः । कृणवत् । ऊँ इति । लोकम् ॥ ७.८४.२
ऋग्वेद - मण्डल » 7; सूक्त » 84; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 6; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 6; मन्त्र » 2
विषयः - सम्प्रति प्रेमरज्जुबद्धस्य राष्ट्रस्य दार्ढ्यं वर्ण्यते।
पदार्थः -
(युवोः) हे नृपास्तथा राजपुरुषाः ! युष्माकं (राष्ट्रम्) राज्यं (द्यौः, बृहत्, इन्वति) द्युलोकपर्यन्तं सुविस्तीर्यतां (यौ) युवां द्वावपि (परि) अभितः (सेतृभिः, अरज्जुभिः, सिनीथः) रज्जुरहितरज्जुसदृशप्रेमात्मकबन्धनैर्बद्धौ (नः) अस्मान् प्राप्नुयातं (ऊ) तथा च (लोकम्) युवयोर्भुवनं (इन्द्रः) विद्युद्विद्यावेत्ता (कृणवत्) रक्षतु (वरुणस्य, हेळः) जलीयविद्याभिज्ञविदुष आक्रमणं (वृज्याः) युष्मदुपरि न भवेत्, युवां प्रार्थयेथाम् (नः) अस्माभिः (उरुम्) विस्तृतलोकाः प्राप्यन्ताम् ॥२॥