ऋग्वेद - मण्डल 7/ सूक्त 84/ मन्त्र 3
कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता । उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र ण॑: स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ॥
स्वर सहित पद पाठकृ॒तम् । नः॒ । य॒ज्ञम् । वि॒दथे॑षु । चारु॑म् । कृ॒तम् । ब्रह्मा॑णि । सू॒रिषु॑ । प्र॒ऽश॒स्ता । उपो॒ इति॑ । र॒यिः । दे॒वऽजू॑तः । नः॒ । ए॒तु॒ । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒म् ॥
स्वर रहित मन्त्र
कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता । उपो रयिर्देवजूतो न एतु प्र ण: स्पार्हाभिरूतिभिस्तिरेतम् ॥
स्वर रहित पद पाठकृतम् । नः । यज्ञम् । विदथेषु । चारुम् । कृतम् । ब्रह्माणि । सूरिषु । प्रऽशस्ता । उपो इति । रयिः । देवऽजूतः । नः । एतु । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेतम् ॥ ७.८४.३
ऋग्वेद - मण्डल » 7; सूक्त » 84; मन्त्र » 3
अष्टक » 5; अध्याय » 6; वर्ग » 6; मन्त्र » 3
अष्टक » 5; अध्याय » 6; वर्ग » 6; मन्त्र » 3
पदार्थः -
भो नानाविधविद्यावेत्तारः ! (नः) अस्माकं (यज्ञम्) क्रतुम् (विदथेषु) अस्मद्यज्ञशालायां (चारुम्, कृतम्) शोभनं विधत्त=सफलं कुरुत (ब्रह्माणि) वैदिकस्तोत्राणि (सूरिषु) ज्ञातिषु मध्ये (प्रशस्ता, कृतम्) प्रशंसनीयं कुरुत (नः) अस्माभिः (देवजूतः) युष्मत्कर्तृकाभिरक्षया (उपो, एतु, रयिः) सुस्थिरं पुष्कलं धनं प्राप्यताम् (नः) अस्मान् (प्र) नानाविधाभिः (स्पार्हाभिः) स्वाभिलषिताभिः (ऊतिभिः) रक्षाभिः (तिरेतम्) समुन्नमयत ॥३॥