Loading...
ऋग्वेद मण्डल - 7 के सूक्त 84 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 84/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - इन्द्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् । प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥

    स्वर सहित पद पाठ

    अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । वि॒श्वऽवा॑रम् । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् । प्र । यः । आ॒दि॒त्यः । अनृ॑ता । मि॒नाति॑ । अमि॑ता । शूरः॑ । द॒य॒ते॒ । वसू॑नि ॥


    स्वर रहित मन्त्र

    अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् । प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥

    स्वर रहित पद पाठ

    अस्मे इति । इन्द्रावरुणा । विश्वऽवारम् । रयिम् । धत्तम् । वसुऽमन्तम् । पुरुऽक्षुम् । प्र । यः । आदित्यः । अनृता । मिनाति । अमिता । शूरः । दयते । वसूनि ॥ ७.८४.४

    ऋग्वेद - मण्डल » 7; सूक्त » 84; मन्त्र » 4
    अष्टक » 5; अध्याय » 6; वर्ग » 6; मन्त्र » 4

    पदार्थः -
    (इन्द्रावरुणा) इन्द्रः परमैश्वर्यसम्पन्नः तथा वरुणः सर्वेषामुपास्यः   परमात्मा (विश्ववारम्) जगत्सम्भजनीयः (वसुमन्तम्) विविधरत्नसम्पन्नं (रयिम्, धत्तम्) सकलसम्पदं दधानः (पुरुक्षुम्) बहुविधान्नयुक्तः तथा (यः) यः (प्र) सम्यक् (आदित्यः) अज्ञानध्वंसकश्चास्ति सः (अनृता, मिनाति) असत्यवादिनो दण्डयति, तथा (शूरः) शूरान् (अमिता, वसूनि, दयते) अपरिमितधनवतः करोति (अस्मे) सद्यमस्मानापि तथाविधसम्पत्तिसमृद्धान् करोतु ॥४॥

    इस भाष्य को एडिट करें
    Top