ऋग्वेद - मण्डल 7/ सूक्त 86/ मन्त्र 8
अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु । शं न॒: क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठअ॒यम् । सु । तुभ्य॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । हृ॒दि । स्तोमः॑ । उप॑ऽसृइतः । चि॒त् । अ॒स्तु॒ । शम् । नः॒ । क्षेमे॑ । शम् । ऊँ॒ इति॑ । योगे॑ । नः॒ । अ॒स्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु । शं न: क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठअयम् । सु । तुभ्यम् । वरुण । स्वधाऽवः । हृदि । स्तोमः । उपऽसृइतः । चित् । अस्तु । शम् । नः । क्षेमे । शम् । ऊँ इति । योगे । नः । अस्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.८६.८
ऋग्वेद - मण्डल » 7; सूक्त » 86; मन्त्र » 8
अष्टक » 5; अध्याय » 6; वर्ग » 8; मन्त्र » 8
अष्टक » 5; अध्याय » 6; वर्ग » 8; मन्त्र » 8
विषयः - अथ परमात्मा जीवान्प्रति तेषां कल्याणाय प्रार्थनाप्रकारमुपदिशति।
पदार्थः -
(वरुण) हे विश्वभजनीय परमात्मन् ! (तुभ्यम्) त्वाम् (अयम्) अयं (सु, स्तोमः) सुयज्ञः (उपश्रितः, अस्तु) प्रापयतु (स्वधावः) भो अन्नादिप्रदातः ! (चित्) चेतनरूप ! (हृदि) इयं मम हृदा प्रार्थनास्ति या वक्ष्यते (नः) भवान् मह्यं (शम्) शर्मदो भवतु (ऊँ) तथा (योगे, क्षेमे) योगप्राप्तिः तद्रक्षा च क्रियताम्, येन (नः) मह्यं (शम्) सुखम् (अस्तु) उत्पद्यताम्, तथा (यूयम्) भवान् (स्वस्तिभिः) मङ्गलकरीभिर्वाग्भिः (नः) अस्मान् (सदा) शश्वत् (पात) रक्षतु ॥८॥ इति षडशीतितमं सूक्तमष्टमो वर्गश्च समाप्तः ॥