ऋग्वेद - मण्डल 7/ सूक्त 87/ मन्त्र 1
रद॑त्प॒थो वरु॑ण॒: सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् । सर्गो॒ न सृ॒ष्टो अर्व॑तीॠता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥
स्वर सहित पद पाठरद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् । सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥
स्वर रहित मन्त्र
रदत्पथो वरुण: सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । सर्गो न सृष्टो अर्वतीॠतायञ्चकार महीरवनीरहभ्यः ॥
स्वर रहित पद पाठरदत् । पथः । वरुणः । सूर्याय । प्र । अर्णांसि । समुद्रिया । नदीनाम् । सर्गः । न । सृष्टः । अर्वतीः । ऋतऽयन् । चकार । महीः । अवनीः । अहऽभ्यः ॥ ७.८७.१
ऋग्वेद - मण्डल » 7; सूक्त » 87; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 9; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 9; मन्त्र » 1
विषयः - अथ परमात्मसकाशात् सकलब्रह्माण्डोत्पत्तिः कथ्यते।
पदार्थः -
(वरुणः) सर्वेषामधिष्ठाता परमात्मा (सूर्याय) सूर्याय गन्तुं (पथः) मार्गं (रदत्) ददाति, तथा च (प्र) सम्यक् (समुद्रिया, अर्णांसि) अन्तरिक्षस्थं जलम्, तथा (नदीनाम्) नदीः (सर्गः, नः) अश्वमिव गच्छन्तीः (अवतीः) वेगवतीः (ऋतायन्) सत्वरं गमयिष्यन् (सृष्टः) सृजति, तथा (अहभ्यः) दिनेभ्यः (महीः) महान्तं (अवनीः) चन्द्रं चोत्पादयामास ॥१॥