Loading...
ऋग्वेद मण्डल - 7 के सूक्त 87 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 87/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - वरुणः छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् । अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥

    स्वर सहित पद पाठ

    आ॒त्मा । ते॒ । वातः॑ । रजः॑ । आ । न॒वी॒नो॒त् । प॒शुः । न । भूर्णिः॑ । यव॑से । स॒स॒ऽवान् । अ॒न्तः । म॒ही इति॑ । बृ॒ह॒ती इति॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । विश्वा॑ । ते॒ । धाम॑ । व॒रु॒ण॒ । प्रि॒याणि॑ ॥


    स्वर रहित मन्त्र

    आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् । अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥

    स्वर रहित पद पाठ

    आत्मा । ते । वातः । रजः । आ । नवीनोत् । पशुः । न । भूर्णिः । यवसे । ससऽवान् । अन्तः । मही इति । बृहती इति । रोदसी इति । इमे इति । विश्वा । ते । धाम । वरुण । प्रियाणि ॥ ७.८७.२

    ऋग्वेद - मण्डल » 7; सूक्त » 87; मन्त्र » 2
    अष्टक » 5; अध्याय » 6; वर्ग » 9; मन्त्र » 2

    पदार्थः -
    (वरुण) हे वरुणरूपपरमात्मन् ! (वातः) वायुः (ते) तव (आत्मा) आत्मस्वरूपोऽस्ति तथा त्वमेव (रजः) जलं (आ) सम्यक् (नवीनोत्) नवीनभावेन प्रेरयसि (न) यथा (यवसे) तृणादिना (पशुः) पशुः गवादिः (ससवान्) समृद्धो भवति, तथैव प्राणात्मको वायुः सर्वेषां जन्तूनां (भूर्णिः) पोषकः, (बृहती, मही) अनयोरतिदीर्घयोः (रोदसी) द्यावापृथिव्योः (अन्तः) मध्ये (इमे, विश्वा) सर्व इमे लोकाः (ते) तव (धाम) प्रतिष्ठास्थानानि सन्ति, ये (प्रियाणि) सर्वजीवप्रियाः सन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top