ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 1
ऋषिः - वत्सः काण्वः
देवता - अग्निः
छन्दः - भुरिगार्चीगायत्री
स्वरः - षड्जः
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑: ॥
स्वर सहित पद पाठत्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ । त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥
स्वर रहित मन्त्र
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्य: ॥
स्वर रहित पद पाठत्वम् । अग्ने । व्रतऽपाः । असि । देवः । आ । मर्त्येषु । आ । त्वम् । यज्ञेषु । ईड्यः ॥ ८.११.१
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 1
विषयः - अथाष्टमाध्यायमुपसंहरन् परमात्मानं स्तौति।
पदार्थः -
(अग्ने) हे परमात्मन् ! (देवः, त्वम्) द्योतमानस्त्वम् (मर्त्येषु, आ) सर्वमर्त्येषु (व्रतपाः, असि) कर्मरक्षकोऽसि अतः (त्वम्, आ) त्वं समन्तात् आदौ (यज्ञेषु, ईड्यः) यज्ञेषु स्तुत्यो भवसि ॥१॥