ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 2
त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य । अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥
स्वर सहित पद पाठत्वम् । अ॒सि॒ । प्र॒ऽशस्यः॑ । वि॒दथे॑षु । स॒ह॒न्त्य॒ । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ॥
स्वर रहित मन्त्र
त्वमसि प्रशस्यो विदथेषु सहन्त्य । अग्ने रथीरध्वराणाम् ॥
स्वर रहित पद पाठत्वम् । असि । प्रऽशस्यः । विदथेषु । सहन्त्य । अग्ने । रथीः । अध्वराणाम् ॥ ८.११.२
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 2
पदार्थः -
(सहन्त्य) हे सहनशील (अग्ने) परमात्मन् ! (विदथेषु) सर्वयज्ञेषु (त्वम्, प्रशस्यः, असि) त्वमेव स्तुत्योऽसि (अध्वराणाम्) यतो हिंसारहितकर्मणाम् (रथीः) नेतासि ॥२॥