ऋग्वेद - मण्डल 8/ सूक्त 9/ मन्त्र 3
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः । ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
स्वर सहित पद पाठये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मृ॒शुः । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥
स्वर रहित मन्त्र
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । एवेत्काण्वस्य बोधतम् ॥
स्वर रहित पद पाठये । वाम् । दंसांसि । अश्विना । विप्रासः । परिऽममृशुः । एव । इत् । काण्वस्य । बोधतम् ॥ ८.९.३
ऋग्वेद - मण्डल » 8; सूक्त » 9; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 3
पदार्थः -
(अश्विना) हे अश्विनौ ! (ये, विप्रासः) ये मेधाविनः (वां, दंसांसि) युवयोः कर्माणि (परिमामृशुः) परिचरन्ति (काण्वस्य) विद्वत्कुलोत्पन्नस्य ममापि (एव, इत्) एवमेव (बोधतम्) जानीतम् ॥३॥