ऋग्वेद - मण्डल 8/ सूक्त 9/ मन्त्र 4
अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते । अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥
स्वर सहित पद पाठअ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ । अ॒यम् । सोमः॑ । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथः ॥
स्वर रहित मन्त्र
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥
स्वर रहित पद पाठअयम् । वाम् । घर्मः । अश्विना । स्तोमेन । परि । सिच्यते । अयम् । सोमः । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथः ॥ ८.९.४
ऋग्वेद - मण्डल » 8; सूक्त » 9; मन्त्र » 4
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 4
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 4
पदार्थः -
(अश्विना) हे सेनाध्यक्षसभाध्यक्षौ ! (वाम्) युवयोः (अयम्, धर्मः) अयं युद्धादिकार्यप्रारम्भदिवसः (स्तोमैः) स्तुतिभिः (परिषिच्यते) उत्साहवर्द्धकः क्रियते (वाजिनीवसू) हे बलयुक्तसेनाधनौ ! (अयम्, मधुमान्, सोमः) अयं ते सोमः मधुरः (येन) येन सोमेन (वृत्रं) शत्रुम् (चिकेतथः) जानीथः ॥४॥