ऋग्वेद - मण्डल 9/ सूक्त 102/ मन्त्र 8
क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑ॠ॒णोरप॑ व्र॒जं दि॒वः । हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥
स्वर सहित पद पाठक्रत्वा॑ । शु॒क्रेभिः॑ । अ॒क्षऽभिः॑ । ऋ॒णोः । अप॑ । व्र॒जम् । दि॒वः । हि॒न्वन् । ऋ॒तस्य॑ । दीदि॑तिम् । प्र । अ॒ध्व॒रे ॥
स्वर रहित मन्त्र
क्रत्वा शुक्रेभिरक्षभिॠणोरप व्रजं दिवः । हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥
स्वर रहित पद पाठक्रत्वा । शुक्रेभिः । अक्षऽभिः । ऋणोः । अप । व्रजम् । दिवः । हिन्वन् । ऋतस्य । दीदितिम् । प्र । अध्वरे ॥ ९.१०२.८
ऋग्वेद - मण्डल » 9; सूक्त » 102; मन्त्र » 8
अष्टक » 7; अध्याय » 5; वर्ग » 5; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 5; मन्त्र » 3
पदार्थः -
हे परमात्मन् ! भवान् (व्रजम्) ज्ञानरूपप्रकाशेन व्रजनाद् व्रजोऽन्धकारं तत् (क्रत्वा) कर्मणा (शुक्रेभिः, अक्षभिः) बलवद्भिर्ज्ञानेन्द्रियैश्च (दिवः) द्युलोकात् (अपर्णोः) अपसारयतु (प्राध्वरे) अस्मिन् ज्ञानयज्ञे च (ऋतस्य, दीधितम्) सत्यताप्रकाशं (हिन्वन्) प्रेरयन् मदज्ञानमपनयतु ॥८॥ इति द्व्युत्तरशततमं सूक्तं पञ्चमो वर्गश्च समाप्तः ॥